हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Srinivasa Taravali – श्री श्रीनिवास तारावली (श्रीदेवशर्म कृतम्)


श्रीवेङ्कटेशं लक्ष्मीशमनिष्टघ्नमभीष्टदम् ।
चतुर्मुखाख्यतनयं श्रीनिवासं भजेऽनिशम् ॥ १ ॥

यदपाङ्गलवेनैव ब्रह्माद्याः स्वपदं ययुः ।
महाराजाधिराजं तं श्रीनिवासं भजेऽनिशम् ॥ २ ॥

अनन्तवेदसंवेद्यं निर्दोषं गुणसागरम् ।
अतीन्द्रियं नित्यमुक्तं श्रीनिवासं भजेऽनिशम् ॥ ३ ॥

स्मरणात्सर्वपापघ्नं स्तवनादिष्टवर्षिणम् ।
दर्शनात् मुक्तिदं चेशं श्रीनिवासं भजेऽनिशम् ॥ ४ ॥

अशेषशयनं शेषशयनं शेषशायिनम् ।
शेषाद्रीशमशेषं च श्रीनिवासं भजेऽनिशम् ॥ ५ ॥

भक्तानुग्राहकं विष्णुं सुशान्तं गरुडध्वजम् ।
प्रसन्नवक्त्रनयनं श्रीनिवासं भजेऽनिशम् ॥ ६ ॥

भक्तभक्तिसुपाशेनबद्धसत्पादपङ्कजम् ।
सनकादिध्यानगम्यं श्रीनिवासं भजेऽनिशम् ॥ ७ ॥

गङ्गादितीर्थजनकपादपद्मं सुतारकम् ।
शङ्खचक्राऽभयवरं श्रीनिवासं भजेऽनिशम् ॥ ८ ॥

सुवर्णमुखितीरस्थं सुवर्णेड्यं सुवर्णदम् ।
सुवर्णाभं सुवर्णाङ्गं श्रीनिवासं भजेऽनिशम् ॥ ९ ॥

श्रीवत्सवक्षसं श्रीशं श्रीलोलं श्रीकरग्रहम् ।
श्रीमन्तं श्रीनिधिं श्रीड्यं श्रीनिवासं भजेऽनिशम् ॥ १० ॥

वैकुण्ठवासं वैकुण्ठत्यागं वैकुण्ठसोदरम् ।
वैकुण्ठदं विकुण्ठाजं श्रीनिवासं भजेऽनिशम् ॥ ११ ॥

(दशावतारस्तुतिः)

वेदोद्धारं मत्स्यरूपं स्वच्छाकारं यदृच्छया ।
सत्यव्रतोद्धारं सत्यं श्रीनिवासं भजेऽनिशम् ॥ १२ ॥

महागाध जलाधारं कच्छपं मन्दरोद्धरम् ।
सुन्दराङ्गं च गोविन्दं श्रीनिवासं भजेऽनिशम् ॥ १३ ॥

वरं श्वेतवराहाख्यं संहारं धरणीधरम् ।
स्वदंष्ट्राभ्यां धरोद्धारं श्रीनिवासं भजेऽनिशम् ॥ १४ ॥

प्रह्लादाह्लादकं लक्ष्मीनृसिंहं भक्तवत्सलम् ।
दैत्यमत्तेभदमनं श्रीनिवासं भजेऽनिशम् ॥ १५ ॥

( नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
वामनाय नमस्तुभ्यं श्रीनिवास स्वरूपिणे ॥ )

वामनं वामनं पूर्णकामं भानवमाणवम् ।
मायिनं बलिसंमोहं श्रीनिवासं भजेऽनिशम् ॥ १६ ॥

चन्द्राननं कुन्ददन्तं कुराजघ्नं कुठारिणम् ।
सुकुमारं भृगुऋषेः श्रीनिवासं भजेऽनिशम् ॥ १७ ॥

श्रीरामं दशदिग्व्याप्तं दशेन्द्रियनियामकम् ।
दशास्यघ्नं दाशरथिं श्रीनिवासं भजेऽनिशम् ॥ १८ ॥

गोवर्धनोद्धरं बालं वासुदेवं यदूत्तमम् ।
देवकीतनयं कृष्णं श्रीनिवासं भजेऽनिशम् ॥ १९ ॥

नन्दनन्दनमानन्दं इन्द्रनीलं निरञ्जनम् ।
श्रीयशोदायशोदं च श्रीनिवासं भजेऽनिशम् ॥ २० ॥

गोबृन्दावनगं बृन्दावनगं गोकुलाधिपम् ।
उरुगायं जगन्मोहं श्रीनिवासं भजेऽनिशम् ॥ २१ ॥

पारिजातहरं पापहरं गोपीमनोहरम् ।
गोपीवस्त्रहरं गोपं श्रीनिवासं भजेऽनिशम् ॥ २२ ॥

कंसान्तकं शंसनीयं सशान्तं संसृतिच्छिदम् ।
संशयच्छेदिसंवेद्यं श्रीनिवासं भजेऽनिशम् ॥ २३ ॥

कृष्णापतिं कृष्णगुरुं कृष्णामित्रमभीष्टदम् ।
कृष्णात्मकं कृष्णसखं श्रीनिवासं भजेऽनिशम् ॥ २४ ॥

कृष्णाऽहिमर्दनं गोपैः कृष्णोपवनलोलुपम् ।
कृष्णातातं महोत्कृष्टं श्रीनिवासं भजेऽनिशम् ॥ २५ ॥

बुद्धं सुबोधं दुर्बोधं बोधात्मानं बुधप्रियम् ।
विबुधेशं बुधैर्बोध्यं श्रीनिवासं भजेऽनिशम् ॥ २६ ॥

कल्किनं तुरगारूढं कलिकल्मषनाशनम् ।
कल्याणदं कलिघ्नं च श्रीनिवासं भजेऽनिशम् ॥ २७ ॥

श्रीवेङ्कटेशं मत्स्वामिन् ज्ञानानन्द दयानिधे ।
भक्तवत्सल भो विश्वकुटुम्बिन्नधुनाऽव माम् ॥ २८ ॥

अनन्त वेदसंवेद्य लक्ष्मीनाथाण्डकारण ।
ज्ञानानन्दैश्वर्यपूर्ण नमस्ते करुणाकर ॥ २९ ॥

इति श्री देवशर्म कृत श्री श्रीनिवास तारावली ।


Sri Venkateshwara Stotras – श्री वेङ्कटेश्वर स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.